Wednesday 10 December 2014

अनचि च।

2. अनचि च।
सूत्रम् - अनचि च
पदच्छेदः - अनचि, च इति द्विपदात्मकं सूत्रमिदम्।
विग्रहः - न अच् अनच्, तस्मिन् अनचि इति विग्रहः।
अनुवृत्तिः - यरोऽनुनासिकेऽनुनासिको वा इत्यतः यरः इति, वा इति चानुवर्तते। अचो रहाभ्यां द्वे इत्यतः अचः इति, द्वे इति चानुवर्तते।
सूत्रवृत्तिः - अचः परस्य यरो द्वे वा स्तः न त्वचि।
सूत्रार्थः - अच् इति स्वरवर्णाः विवक्षिताः। तथा च अनच् परस्य अच उत्तरस्य यरः द्वित्वं विकल्पेन भवति इति सूत्रार्थः फलति। प्रकृते अनचि इत्यत्र नञ्समासः न तु पर्युदासं बोधयति अपि तु प्रतिषेधमेवव। अर्थात् पर्युदासे सति अज्भिन्ने, हलि इति कथनेन रामात् इत्यत्र द्वित्वं न स्यात्। अत एव प्रतिषेध एव स्वीकर्तव्यः। अर्थात् अनचि इत्यस्य न तु अचि परे इत्येवार्थः वक्तव्यः।

उदाहरणम् - सुध्युपास्यः इत्यत्र सकारोत्तर-उकारः अच्। ततः धकारः वर्तते यश्च यर् प्रत्याहारे भवति। तस्मात् यकारः वर्तते यश्च अनच् वर्णः। तस्मात् तस्य धकारस्य द्वित्वे कृते सुध् ध् युपास्य इत्यवस्थायां प्रथमधकारस्य जश्त्वे कृते धकारस्य दकारे कृते सुद्ध्युपास्यः इति रूपं सिद्ध्यति। 

इकोयणचि।

1.इको यणचि।
सूत्रम् - इको यणचि।
पदच्छेदः - इकः, यण्, अचि
अनुवृत्तिः - प्लुतप्रगृह्या अचि नित्यम् इत्यतः अचि इत्यनुवर्तते। संहितायाम् इत्यधिक्रियते।
सूत्रवृत्तिः - इकः स्थाने यण् स्यादचि संहितायां विषये।
सूत्रार्थः - इक् इति इ, , , लृ इति चत्वारः वर्णाः। यण् इति य, , , ल इति चत्वारः वर्णाः। इकः इति षष्ठी। तथा च षष्ठी स्थाने योगा इति परिभाषया स्थाने इति लभ्यते। अचि इति सप्तमीनिर्दिष्टं पदं वर्तते। तेन च तस्मिन्निति निर्दिष्टे पूर्वस्य इति परिभाषया पूर्वस्य इति लभ्यते।  तथा च सूत्रार्थः एवं भवति - इक् वर्णानां यदि असवर्णाः अच्वर्णाः परे भवन्ति तर्हि तेषां इकां स्थाने यण् वर्णाः भविष्यन्ति इति। तत्र कस्य वर्णस्य क आोदेशः इति प्रश्ने उच्यते - स्थानतान्तर्याद् तालुस्थानकस्य इकारस्य तालुस्थानकः यकारः इचुयशानां तालु इति निर्देशात्, उकारस्य च वकारः उपूपध्मानीयानाम् ओष्ठौ, वकारस्य दन्तोष्ठम् इति उभयत्रापि ओष्ठस्थाने साम्यत्वं दृश्यते। तथैव मूर्धन्यस्थानकस्य ऋकारस्य मूर्धन्यस्थानकः रेफः, ऋटुरषाणां मूर्धा इति निर्देशात्। तथैव च दन्तस्थानकस्य लृकारस्य दन्तस्थानकः लकारः, लृतुलसानां दन्ताः इति निर्देशात्। 
उदाहरणम् - 1. सुध्युपास्यः -  सुधी उपास्यः इत्यवस्थायां धकारोत्तरीकारस्य उपास्यः इति उकाररूप-अच्परकत्वात् प्रकृतसूत्रेण यणादेशे कृते अर्थात् इकारस्य पूर्वोक्तरीत्या स्थानसाम्यात् यकारे कृते सुध्युपास्यः इति रूपसिद्धिः भवति। 
2. मध्वरिः -  मधु अरिः इत्यवस्थायां धकारोत्तर-उकारः इक् वर्णः, तस्य च अिरिः इत्यत्र अकाररूपाच्परकत्वात् प्रकृतसूत्रेण यणादेशः भवति। तथा च उकारस्य वकारादेशे कृते मध्वरिः इति रूपसिद्धिः।
3. धात्रंशः - धातृ अंशः इत्यवस्थायां तकारोत्तर-ऋकारस्य अंशः इत्यत्र अकारूपाच्परकत्वात् प्रकृतसूत्रेण यणादेशे, ऋकारस्य च रेफादेशे कृते धात्रंशः इति रूपसिद्धिः भवति।

4. लाकृतिः - लृ आकृतिः इत्यवस्थायां लृकारस्य आकृतिः इत्यत्राकाररूपाच्परकत्वात् प्रकृतसूत्रेण यणादेशे लृकारस्य लकारादेशे कृते लाकृतिः इति रूपसिद्धिः भवति। 

Tuesday 9 December 2014

कुगतिप्रादयः।

15. कुगतिप्रादयः।
पदच्छेदः - कुगतिप्रादयः इति।
विग्रहः - कु च गतिश्च प्रादिश्चेति ते कुगतिप्रादयः।
अनुवृत्तिः - नित्यं क्रीडाजीविकयोः इत्यतः नित्यमित्यनुवर्तते। सह सुपा, सुबामन्त्रिते पराङ्गवत्स्वरे इत्यतः सुप् इति च अनुवर्तते। समासः, तत्पुरुषः इति च अधिक्रियते।
सूत्रवृत्तिः - एते समर्थेन नित्यं समस्यन्ते।
सूत्रार्थः कु इत्यनेन अव्ययं परिगृह्यते। गति इत्यनेन च गतिसंज्ञकाः गृह्यन्ते। प्रादयश्च उपसर्गाः। एवञ्च कुगतिप्रादयः समर्थेन शब्दान्तरेण सह नित्यं समस्यन्ते, स च तत्पुरुषसमासः इत्यर्थः।

उदाहरणम् - कु इत्यस्य च कुत्सितिः पुरुषः इति अस्वपदविग्रहे कुत्सितार्थे कु इत्यस्य शब्दस्य प्रयोगे, स च समर्थेन  पुरुषशब्देन समस्यते प्रकृतसूत्रबलात्। तथा च कु पुरुष सु इत्यवस्थायां समासत्वात् प्रातिपदिकत्वे, सुब्लुकि, कुपुरुष इत्यस्मात् सु प्रत्यये, तस्य च रुत्वविसर्गौ च कृते कुपुरुषः इति रूपम्। एवमेव गतेरुदाहरणं तु उररीकृत्य इति। प्रादीनञ्च दुष्पुरुषः इति। अत्र च दुरित्युपसर्गः निन्दायां प्रयुक्तः।। 

उपपदमतिङ्।

14. उपपदमतिङ्।
पदच्छेदः - उपपदम्, अतिङ् इति द्विपदात्मकं सूत्रम्।
अनुवृत्तिः - नित्यं क्रीडाजीविकयोः इत्यस्मात् सूत्रात् नित्यमिति अनुवर्तते। सुबामन्त्रिते पराङ्गवत्स्वरे इत्यतः सुबिति अनुवर्तते। सह सुपा इत्यधिक्रियते। समासः, तत्पुरुषः इति च अधिक्रियते।
सूत्रवृत्तिः - उपपदं सुबन्तं समर्थेन नित्यं समस्यते। अतिङन्तश्चायं समासः।
सूत्रार्थः - उपपदम् सुबन्तं समर्थेन शब्दान्तरेण सह नित्यं समस्यते, अतिङन्तः, तत्पुरुषश्च भवति अयं समासः।

उदाहरणम् - कुम्भं करोतीति कुम्भकारः। प्रकृते कुम्भ अम् कार इत्यलौकिकविग्रहवाक्ये कार इति प्रकृतसूत्रेण समासे, समासत्वात् प्रातिपदिकसंज्ञायां, सुपो धातुप्रातिपदिकयोः इत्यनेन सूत्रेण सुब्लुकि, प्रथमानिर्दिष्टं समास उपसर्जनम् इत्यनेन कुम्भ इत्यस्य उपसर्जनसंज्ञायां, तस्य च उपसर्जनं पूर्वम् इत्यनेन सूत्रेण पूर्वनिपाते कुम्भकार इत्यस्मात् सु प्रत्यये रुत्वविसर्गौ च कृते कुम्भकारः इति रूपम्।।

त्रेस्त्रयः।

13. त्रेस्त्रयः।
पदच्छेदः - त्रेः, त्रयः इति द्विपदात्मकं सूत्रम्।
अनुवृत्तिः - अलुगुत्तरपदे इत्यस्मात् उत्तरपदे इत्यधिक्रियते। द्व्यष्टनः इत्यादिसूत्रात् अबहुव्रीह्यशीत्योः इत्यनुवर्तते।
सूत्रवृत्तिः - त्रिशब्दस्य त्रयस् स्यात्पूर्वविषये।
सूत्रार्थः - सन्धिवेलादिषु त्रेस्त्रयः इति सप्तमाध्ययस्थ सूत्रेण त्रयादेशः भवति। परं प्रकृतसूत्रेण त्रयस् इति सकारान्तादेशः विधीयते। तथा च सूत्रार्थः - त्रि इत्येतस्य शब्दस्य त्रयस् आदेशः भवति, सङ्ख्यायाम्, उत्तरपदे अबहुव्रीह्यशीत्योः इति।
उदाहरणम् - त्रयश्च दश चेति विग्रहे समासे, समासत्वात् प्रातिपदिकसंज्ञायां, सुपो धातुप्रातिपदिकयोः इत्यनेन सूत्रेण सुब्लुकि त्रय दश इत्यवस्थायां प्रकृतसूत्रेण त्रिशब्दस्य त्रयसादेशे त्रयस् दश इति स्थिते सस्य रुत्वे, रेफस्य उत्वे गुणे च कृते त्रयोदश इत्यस्मात् सु प्रत्यये तस्य च लोपे त्रयोदश इति रूपम्।।  

दलप्रयोजनम् - अबहुवीहि इति किमर्थमिति चेद् बहुव्रीहौ तु न इति बोधनाय। त्रिः आवृत्ता दशा येन इत्यस्मिन् विग्रहवाक्ये बहुव्रीहिसमासत्वात् त्रिशब्दस्य त्रयसादेशाभावे तु त्रिर्दशाः इति रूपम्। एवमे अशीतौ अपि न त्रयसादेशः। त्रयश्च अशीतिश्चेति त्रयाशीतिः इति रूपम्।।

पिता माता।

12. पिता माता।
पदच्छेदः - पिता, माता इति द्विपदात्मकं सूत्रम्।
अनुवृत्तिः - नपुंसकमनपुंसकेनैकवच्चस्यान्यतरस्याम् इत्यस्मात् अन्यतरस्याम् इत्यनुवर्तते। सरूपाणामेकशेष एकविभक्तौ इत्यतः शेषः इत्यनुवर्तते।
सूत्रवृत्तिः - मात्रा सहोक्तौ पिता वि शिष्यते।
सूत्रार्थः - मात्रा सह वचने पितृशब्दः शिष्यते विकल्पेन इति सूत्रार्थः।

उदाहरणम् - माता च पिता च इति लौकिकविग्रहवाक्ये माता सु पिता सु इत्यलौकिकविग्रहवाक्ये प्रकृतसूत्रेण समासे समासत्वात् प्रातिपदिकसंज्ञायां सुपो धातुप्रातिपदिकयोः इत्यनेन सूत्रेण सुब्लुकि मातापिता इत्यवस्थायां प्रकृतसूत्रेण पितृशब्दैव अवशिष्यते तस्मात् औ प्रत्यये पितृ औ इत्यवस्थायां ऋतो ङि सर्वनामस्थानयोः इत्यनेन सूत्रेण गुणे रपरत्वे च पितरौ इति रूपम्। विकल्पेन विधानात् एकशेषाभावे तु मातापितरौ इति रूपम्।।

उपमानानि सामान्यवचनैः।।

11. उपमानानि सामान्यवचनैः।।
पदच्छेदः - उपमानानि, सामान्यवचनैः इति।
विग्रहः - उपमीयते अनेन इति उपमानम्।
अनुवृत्तिः - विभाषा, सह सुपा इति च अनुवर्तते। समासः, तत्पुरुषः इति च अधिक्रियते।
सूत्रवृत्तिः - इह पूर्वपदं तत्सदृशे लाक्षणिकमिति सूचयितुं लौकिकविग्रहे इवशब्दः प्रयुज्यते। पूर्वनिपातार्थं सूत्रम्।
सूत्रार्थः - उपमानोपमेययोः समानो धर्मः सामान्यम्। उपमानानि इति पदं सुबन्तानि इत्यस्य विशेषणम्, सामान्यवचनैः इति इदं तावत् सुबन्तैः इत्यस्य विशेषणम्। सूत्रार्थस्तु सादृश्यनिरूपकशब्दऽपरपर्यायाः उपमानशब्दाः उपमान-उपमेयसाधारणदर्मविशिष्टवाचिभिः समानाधिकरणैः समस्यन्ते इति।  निष्कृष्टार्थस्तु उपमानवाचीनि सुबन्तानि सामान्यवचनैः सुबन्तैः सह समस्यते, स च तत्पुरुषसमासः इत्यर्थः।
उदाहरणम् - घन इव श्यामः इति विग्रहे घन इत्युपमानवाची श्याम इति सामान्यवचनेन सह समस्यते। तथा च घन सु इव श्याम सु इत्यवस्थायाम् अेनेन सूत्रेण समासे प्राप्ते समासत्वात् प्रातिपदिकत्वे, सुब्लुकि, घनइवश्याम इति स्थिते शाकप्रियादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम् इति वार्तिकेन इव इत्यस्य च लोपे कृते घनश्याम इत्यस्मात् पुनः सुप्रत्यये तस्य च रुत्वविसर्गौ कृते शाकपार्थिवः इति रूपम्।।

दलप्रयोजनम् - उपमानानि इति पदं किमर्थम्? शस्त्रीश्यामा देवदत्ता इत्यत्र उपमानं शस्त्री, उपमेया देवदत्ता। उपमानानि इति पदाभावे प्रकृतोदाहरणे श्यामा इति पदं देवदत्तपदेन सह समस्यते। अतः उपमानानि इति पदम्। सामान्यवचनैः इति किमर्थम्? फाला इव तण्‍डुलाः इत्यस्मिन् वाक्ये फाला उपमानं, तण्डुलाः यद्यपि उपमेयं, तथापि समासः न भवति, सामान्यवचनत्वाभावात्। अन्यथा तत्रापि समासः स्यात्। तन्निवृत्त्यर्थं सामान्यवचनैः इति पदम्। 

पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे।

10. पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे।
पदच्छेदः - पूर्वपराधरोत्तरम्, एकदेशिना, अनैकाधिकरणे इति त्रिपदात्मकं सूत्रमिदम्।
विग्रहः - पूर्वञ्च परञ्च अधरञ्च उत्तरञ्चेति पूर्वपराधरोत्तरम्। न एकाधिकरणे अनैकाधिकरणे इिति विग्रहः। एकदेशशब्दः अवयवे रूढः। एकदेशः अस्य अस्तीति एकदेशी अवयवी, तेन एकदेशेन।
अनुवृत्तिः - प्राक्कडारात् समासः इत्यधिक्रियते। तत्पुरुषः इत्यधिक्रियते।
सूत्रवृत्तिः - अवयविना सह पूर्वादयः समस्यन्ते, एकत्वसंख्याविशिष्टश्चेदवयवी।
सूत्रार्थः - सूत्रे एकदेशशब्दः अवयवार्थं विदधाति। तथा च सूत्रार्थः - एकत्वविशिष्टद्रव्ये वर्तमानेन अवयविवाचकसुबन्तेन पूर्वापरधरोत्तरशब्दाः सुबन्ताः समस्यन्ते, स तत्पुरुषः इति। इदं च सूत्रं षष्ठी इत्यनेन सूत्रेण विहितस्य अपवादः। अन्यथा षष्ठ्यन्तस्यैव पूर्वनिपातः स्यात्।

उदाहरणम् - पूर्वं कायस्य इति विग्रहे पूर्व अम् काय ङस् इत्यलौकिकविग्रहवाक्ये प्रकृतसूत्रेण समासे, समासत्वात् प्रातिपदिकसंज्ञायां सुपोधातुप्रातिपदिकयोः इत्यनेन सूत्रेण सुब्लुकि पूर्वकाय इत्यस्मात् सु प्रत्यये रुत्वविसर्गौ च कृते पूर्वकायः इति रूपम्।।

चतुर्थीतदर्थार्थबलिहितसुखरक्षितैः।

9. चतुर्थीतदर्थार्थबलिहितसुखरक्षितैः। 
पदच्छेदः - चतुर्थी, तदर्थार्थबलिहितसुखरक्षितैः इति।
विग्रहः - तस्य अर्थः तदर्थः। तदर्थश्च, अर्थश्च, बलिश्च, हितञ्च, सुखञ्च, रक्षितञ्चेति तदर्थार्थबलिहितसुखरक्षितानि तैः तदर्थार्थबलिहितसुखरक्षितैः इति।
अनुवृत्तिः - तत्पुरुषः इति अधिक्रियते। विभाषा इति अनुवर्तते। सह सुपा इति च अनुवर्तते। समासः इति अधिक्रियते।
सूत्रवृत्तिः - चतुर्थ्यन्तार्थाय यत्  तद्वाचिना, अर्थादिभिश्च चतुर्थ्यन्तं वा प्राग्वत् इति।
सूत्रार्थः - चतुर्थी इति पदं सुबामन्त्रिते पराङ्गवत्स्वरे इत्यस्मात् सूत्रात् अनुवर्त्यमानस्य सुप् इति पदस्य विशेषणम्। प्रत्ययग्रहणे तदन्ताः ग्राह्याः इति तदन्तग्रहणम्। तदिति पदेन चतुर्थ्यन्तस्य अर्थः परामृश्यते। तस्मै इदं तदर्थम्। तथा च चतुर्थ्यन्तं सुबन्तं चतुर्थ्यर्थेन सुबन्तेन, बलिशब्देन, हितशब्देन, सुखशब्देन, रक्षितशब्देन च समस्यते, स च तत्पुरुषसमासः भवति इत्यर्थः जायते। प्रकृते चतुर्थ्यर्थः इत्यनेन प्रकृतिविकृतिभावः उच्यते। अतश्च तस्मिन् एव समासोऽयमिष्यते। किञ्च सूत्रे विद्यमानेन अर्थशब्देन नित्यसमासवचनं, सर्वलिङ्गता च वक्तव्या।

उदाहरणम् - यूपाय दारु इति विग्रहे चतुर्थ्यन्तवाच्याय यत् दारु तद् वाचिना सह चतुर्थ्यन्तं यूपाय इति चतुर्थ्यन्तं समस्यते। तथा च यूप ङे दारु सु इत्यवस्थायां प्रकृतसूत्रेण समासे कृते समासत्वात् प्रातिपदिकसंज्ञायां, सुब्लुकि यूपदारु इति स्थिते सूत्रे चतुर्थी इति प्रथमानिर्दिष्टत्वात् तस्यैव चतुर्थ्यन्तस्यैव उपसर्जनसंज्ञायां, तस्य च पूर्वनिपाते यूपदारु इत्यस्मात् प्रातिपदिकात् सु प्रत्यये कृते यूपदारु सु इति स्थिते परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः इत्यनेन नपुंसकलिङ्गत्वे स्वमोर्नपुंसकात् इत्यनेन च सु प्रत्ययस्य लुकि यूपादारु इति रूपम्। एवमेव कुबेराय बलिः कुबेरबलिः, गवे हितम्, गोहितम्, गवे सुखम् गोसुखम्, गवे रक्षितम् गोरक्षितम् इत्यादीनि अन्यानि उदाहरणानि।। 

नदीभिश्च।

8. नदीभिश्च।
पदच्छेदः - नदीभिः, च इिति।
अनुवृत्तिः - अव्ययीभावः इत्यतः अव्ययीभाव इत्यनुवर्तते।
सूत्रवृत्तिः - नदीभिः सह संख्या प्राग्वत्।
सूत्रार्थः - सूत्रे विद्यमानचकारेण पूर्वसूत्रात् संख्या इति पदमनुकृष्यते। तथा च नदीवचनैः शब्दैः सह संख्या समस्यते, स च समासः अव्ययीभावसमासः इत्यर्थः। अत्र च पुनः नियमः परिकल्प्यते यत् पूर्वोक्तः समासः कुत्र भवति इत्यत्र उच्यते सामहारे चायमिष्यते इति। अस्मिन् वाक्ये विद्यमानः चकारः एावार्थे प्रयुक्तः। तथा च अधुना सूत्रार्थः नदीभिः सह संख्या समाहारे एव समस्यते, स च अव्ययीभावसमास इति। अत्र नदीशब्देन नदीशब्दविशेषस्य, नदीवाचकानां च ग्रहणं कर्तव्यमिति भाष्यकाराणामभिप्रायः। अत एव पञ्चनदं, सप्तगोदावरमित्यादिरपि सिद्ध्यति।

उदाहरणम् - सप्तगङ्गम् इति। सप्तानां गङ्गानां समाहारः इति विग्रहवाक्ये सप्त आम् गङ्गा आम् इति च अलौकिकविग्रहवाक्ये अनेन सूत्रेण समासे कृते समासत्वात् प्रातिपदिकसंज्ञायां, प्रातिपदिकत्वात् सुपो धातुप्रातिपदिकयोः इत्यनेन सुब्लुकि सप्तगङ्गा इत्यवस्थायां संख्यायाः प्रथमानिर्दिष्टत्वात् उपसर्जनसंज्ञायां तस्य च पूर्वनिपाते सप्तगङ्गा इत्यस्मात् सु प्रत्यये कृते सप्तगङ्गा सु इत्यवस्थायाम् अव्ययीभावादतोऽम्त्वपञ्चम्याः इत्यनेन सुप्रत्ययस्य च अम्भावे गोस्त्रियोरुपसर्जनस्य इत्यनेन सूत्रेण प्रातिपदिकस्य ह्रस्वे सप्तगङ्ग अम् इत्यत्र च अमि पूर्वः इत्येनन पूर्वरूपे कृते सप्तगङ्गम् इति रूपं सिद्ध्यति।

Thursday 4 December 2014

प्रथमा निर्दिष्टं समास उपसर्जनम्

Sanskrit

7. प्रथमा निर्दिष्टं समास उपसर्जनम्।
पदच्छेदः - प्रथमानिर्दिष्टं, समास, उपसर्जनम् इति त्रिपदात्मकं सूत्रम्।
विग्रहः - प्रथमया (विभक्त्या) निर्दिष्टम् प्रथमानिर्दिष्टम्।
सूत्रवृत्तिः - समासशास्त्रे प्रथमानिर्दिष्टम् उपसर्जनसंज्ञं स्यात्।
सूत्रार्थः- सूत्रस्थपदानामेव अर्थकरणे समासे चिकीर्षते यद् पदं प्रथमानिर्दिष्टं भवति तस्य उपसर्जनसंज्ञा इत्यर्थो लभ्यते। तथा सति कृष्णं श्रितः इत्यत्र समासे चिकीर्षिते कृष्णशब्दस्य प्रथमानिर्दिष्टत्वाभावात् श्रितशब्दस्यैव प्रथमानिर्दिष्टत्वात् तस्यैव पूर्वनिपातः स्यात्। अतः सूत्रस्थसमासे इति पदेन समासविधायकशास्त्रे इत्यर्थः बोध्यः। तेन च सूत्रार्थः एवं भवति - समासविधायकशास्त्रे यत्प्रथमानिर्दिष्टं भवति तस्य उपसर्जनसंज्ञा इति। तथा च पूर्वोक्तस्थलेऽपि दोषः न स्यात्।

उदाहरणम् - अधिहरि इत्यस्मिन् समासे हरौ इति लौकिकविग्रहे हरि ङि अधि सु इति अलौकिकविग्रहवाक्ये अव्ययं विभक्तिसमीपेत्यादि सूत्रेण समासे सुपोधातुप्रातिपदिकयोः इत्यनेन सूत्रेण सुब्लुकि हरि अधि इत्यवस्थायां प्रकृतसूत्रेण समासविधायकशास्त्रे अर्थात् अव्ययं विभक्तिसमीपेत्यादि सूत्रे प्रथमानिर्दिष्टं भवति अव्ययम् इति पदम्। तथा च तस्य उपसर्जनसंज्ञायां उपसर्जनं पूर्वम् इत्यनेन तस्य पूर्वनिपाते अधिहरि इति जाते तस्मात् सु प्रत्यये तस्य च लोपे अधिहरि इति रूपम्। 

ऋक्पूरब्धूःपथामानक्षे

Sanskrit
6. ऋक्पूरब्धूःपथामानक्षे
पदच्छेदः - ऋक्पूरब्धूःपथाम्, , अनक्षे इति त्रिपदात्मकं सूत्रम्।
विग्रहः - ऋक् च पूर् च अप् च धूर् च पथिन् चेति ऋक्पूरब्धूःपथः। तेषाम् ऋक्पूरब्धूःपथाम् इति विग्रहः। न अक्षे अनक्षे इति।
अनुवृत्तिः - समासान्ताः इत्यधिक्रियते।
सूत्रवृत्तिः - ऋगाद्यन्तस्य समासस्य अप्रत्ययोऽन्तावयवः स्यात, अक्षे या धूस्तदन्तस्य तु न।
सूत्रार्थः - अेनेन सूत्रेण अकारः अन्तावयवत्वेन विधीयते। तथा च  ऋक्, पुर्, अप्, धुर्, पथिन् इत्येषाम् अन्तस्य समासस्य अकारात्मकप्रत्ययः अन्तावयवत्वेन भवति इति सूत्रार्थः। सूत्रे अनक्षे इति श्रूयते। तच्च अनक्षे इत्यत्रैव संबध्यते, अन्येषामसंभवात्। तथा च विहितः अकारा-अन्तावयवः अक्षसंबन्धिनी या धूः तस्य न भवति इति सूत्रस्थानक्षे इति पदेन बोध्यते।

उदाहरणम् - ऋचाम् अर्धः अर्धर्चः इति ऋचः उदाहरणम्। विष्णोः पूर् विष्णुपुरम् इति पुरः उदाहरणम्। 

चार्थे द्वन्द्वः।

Sanskrit
5. चार्थे द्वन्द्वः।
पदच्छेदः - चार्थे द्वन्द्वः इति द्विपदात्मकं सूत्रम्।
अनुवृत्तिः - सुबामन्त्रिते पराङ्गवत्स्वरे इत्यतः सुबिति अनुवर्तते। अनेकमन्यपदार्थे इत्यतः अनेकमित्यनुवर्तते। समासः इत्यधिक्रियते।
सूत्रवृत्तिः - अनेकं सुबन्तं चार्थे विद्यमानं वा समस्यते सः द्वन्द्वः इति।
सूत्रार्थः -  द्वन्द्वसमासविधायकं सूत्रमिदम्। सूत्रेऽस्मिन् चार्थः इति वर्तते। तथा च कोऽयं चार्थः इत्याक्षेपे उच्यते - चार्थाः चतुर्धा भवन्ति। समुच्चय-अन्वाचय-इतरेतर-समाहाररूपेण। तत्र समुच्चयस्य अर्थस्तु परस्परनिरपेक्षस्यानेकस्य एकस्यां क्रियायामन्वयः समुच्चयः। अन्यतरस्य आनुषङ्गिकत्वेऽन्वयः अन्वाचयः इति अन्वाचयस्य लक्षणम्। मिलितानाम् अन्वयः इतरेतरयोगः। समूहः समाहारः इति चतुर्थः चार्थः। एतेषु चतुर्षु चार्थेषु इतरेतरयोगचार्थे, समाहारचार्थे एव समासः भवति। समुच्चये अन्वाचये च सामर्थ्याभावात् समासः न भवति।

उदाहरणम् - धवखदिरौ इति इतरेतरयोगस्य उदाहरणम्। धवश्च खदिरश्चेति विग्रहवाक्ये धव सु खदिर सु इत्यवस्थायां सुपो धातुप्रातिपदिकयोः इत्यनेन सूत्रेण सुब्लुकि धवखिदर इति स्थिते कृत्तद्धितसमासाश्च इत्यनेन सूत्रेण प्रातिपदिकसंज्ञायां स्वौजसमौट् इत्यादिसूत्रेण सु प्रत्यये धवखदिर औ इत्यवस्थायां वृद्धिरेचि इत्यनेन सूत्रेण वृद्धौ च धवखदिरौ इति रूपम्।
विशिष्टविचारः - चार्थाः चतुर्धा भवन्ति। ते च समुच्चय-अन्वाचय-इतरेतरयोग-समाहाराः। तत्र समुच्चयो नाम परस्परनिरपेक्षस्यानेकस्यैकस्मिन् अन्वयः। निष्कृष्टार्थस्तु एकस्मिन् क्रियापदे आवृत्ते एकस्य असमस्यमानपदस्य प्रथममन्वयः, तदनन्तरमन्यस्य अन्वयः यत्र तत्र समुच्चयः चार्थः ज्ञेयः। यथा - ईश्वरं गुरुं च भजस्व इति। अत्र च शब्दयोगाद् गुरोः ईश्वरसापेक्षत्वम्। तथा च सापेक्षसमर्थवत्भवति इत्युक्तत्वात् समासः न भवति।
            द्वितीयस्तु अन्वाचयः। अन्यतरस्यानुषङ्गिकत्वेन अन्वयः अन्वाचयः। निष्कृष्टार्थस्तु - यत्र अन्यतरस्य पदस्य एकस्मिन् क्रियापदे आनुषङ्गिकत्वेन परार्थप्रवृत्तिविषयत्वेन अन्वयः., इतरस्य च पदस्य अन्यस्मिन् क्रियापदे उद्देश्यत्वेन अन्वयः तत्र अन्वाचयः चार्थः ज्ञेयः। यथा - भिक्षाम् अट, गां च आनय इति। अत्र भिक्षाम् अटनेन प्राप्नुहि, तदा गौः संगता चेत् तामपि आनय इत्यर्थः। अत्र तु गवानयने ऐदंपर्येण प्रयत्नः न विधेयः इति ज्ञायते। तथा च प्रकृतेऽपि सामर्थ्याभावात् न समासः।
            तृतीयः इतरेतरयोगः। मिलितानामन्वय इतरेतरयोगः। निष्कृष्टार्थस्तु - यत्र परस्परापेक्षितानां समुदितानाम् एकस्मिन् क्रियापदे अन्वयः, तत्र इतरेतरयोगः चार्थः ज्ञेयः। यथा - धवश्च खदिरश्च धवखदिरौ इति। अत्र च परस्परसाहित्यसूचनाय धवश्च खदिरश्च इति चकारद्वयस्य प्रयोगः। प्रकृते च सामर्थ्यं वर्तते इत्यतः समासः इष्यते एव।
            अन्ते च समाहारः। समूहः समाहारः इत्युच्यते। निष्कृष्टार्थस्तु - परस्परसाहित्यं यत्र वर्तते तत्र समाहारः चार्थः ज्ञेयः। यथा - संज्ञा च परिभाषा च संज्ञापरिभाषम् इति। प्रकृते समाहारे द्वन्द्वः, द्विगुश्च नपुंसकं स्यात् इत्यर्थेकेन स नपुंसकम् इत्यनेन सूत्रेण नपुंसकत्वं भवति।
            अत्रावधेयांशः - इतरेतरयोगद्वन्द्वे साहित्यं (सहितस्य भावः) द्रव्यविशेषणम्। समाहारद्वन्द्वे तु समूहो विशेष्यम् भवति।   

अनेकमन्यपदार्थे।

Sanskrit

4. अनेकमन्यपदार्थे।
पदच्छेदः - अनेकम्, अन्यपदार्थे इति द्विपदात्मकं सूत्रमिदम्।
विग्रहः - न एकम् (सुबन्तम्) अनेकम् इति।
अनुवृत्तिः - प्राक्कडारात् समासः इत्यतः समासः इत्यधिक्रियते। शेषो बहुव्रीहिः इत्यस्मात् बहुव्रीहिरित्यपि अधिक्रियते। सुबामन्त्रिते पराङ्गवत्स्वरे इत्यतः सुबिति अनुवर्तते।
सूत्रवृत्तिः - अनेकं प्रथमान्तम् अन्यस्य पदार्थे वर्तमानं वा समस्यते, स बहुव्रीहिः।
सूत्रार्थः - द्वितीयाश्रितातीतयेत्यादिना विहितविभक्तिषट्कापेक्षया विद्यमानः शेषः। अर्थात् प्रथमा इत्यर्थः। अन्यपदार्थे विद्यमानम् इत्यस्य तु उपस्थितप्रथमान्तव्यतिरिक्तम् इत्यर्थः। एवं च अनेकं प्रथमान्तसुबन्तं शब्दस्वरूपम् अन्यस्य पदस्य अर्थे विद्यमानं विकल्पेन समासं प्राप्नोति स च समासः बहुव्रीहिनाम्ना अभिधीयते इति सूत्रार्थः।

उदाहरणम् - प्राप्तम् उदकं यम् इति लौकिकविग्रहवाक्ये प्राप्त अम् उदक अम् इति अलौकिकविग्रहवाक्ये प्रकृतसूत्रेण समासे समासत्वात् प्रातिपदिकसंज्ञायां सुपोधातुप्रातिपदिकयोः इत्यनेन सूत्रेण सुब्लुकि प्राप्त उदक इत्यवस्थायाम् आद्‌गुणः इत्यनेन सूत्रेण गुणे कृते प्राप्तोदक इत्यस्य कृत्तद्धितसमासाश्च इत्यनेन सूत्रेण प्रातिपदिकसंज्ञायां स्वौजसमौट् इत्यादिना सु प्रत्यये च प्राप्तोदक सु इत्यवस्थायां रुत्वविसर्गौ च प्राप्तोदकः इिति रूपं सिद्ध्यति।

विशेषणं विशेष्येण बहुलम्।

Sanskrit

3. विशेषणं विशेष्येण बहुलम्।
पदच्छेदः - विशेषणं, विशेष्येण, बहुलम् इति।
अनुवृत्तिः - पूर्वकालैक इत्यादि सूत्रात् समानाधिकरणेन इत्यस्य, विभाषा, सह सुपा, सुबामन्त्रिते इत्यस्मात् च सुप् इत्यादीनामनुवृत्तिः। समासः, तत्पुरुषः इति च अधक्रियते।
सूत्रवृत्तिः - भेदकं समानाधिकरणेन भेद्येन बहुलं प्राग्वत्।
सूत्रार्थः - भेदकम् इत्यस्य व्यावर्तकमित्यर्थः। विशेषणम् इति यावत्। भेद्यञ्च विशेषयम्। विशेषणीयं विशेष्यम्। तथा च विशेषणवाचि सुबन्तं विशेष्यवाचिना समानाधिकरणेन सुबन्तेन सह बहुलं समस्ये, स च तत्पुरुषः समासः भवति इत्यर्थः। अत्र हरदत्ताचार्यस्तु एवमभिप्रैति यद् समस्यमानपदद्वयजन्योबोधप्रकारकयोः विशेषणविशेष्यधर्मयोः यत्र परस्परव्यभिचारः तत्रैव समासः स्यात् इति।
उदाहरणम् - नीलम् उत्फलम् इति विग्रहे विशेषणवाचि नीलम् इति सुबन्तं विशेष्यवाचिना उत्पलम् इत्यादिना सह समस्यते। तथा च नील सु उत्फल तु इत्यवस्थायां प्रकृते सूत्रेण समासे, समासत्वात् प्रातिपदिकत्वे, सुब्लुकि, नील उत्फल इत्यत्र आद्‌गुणः इत्यनेन गुणे कृते नीलोत्फल शब्दात् सु प्रत्यये कृते नीलोत्फल सु इत्यवस्थायां परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः इत्यनेन नपुंसकलिङ्गत्वे अतोऽम् इत्यनेन सूत्रेण च सु प्रत्ययस्य अमादेशे, पूर्वरूपे च कृते नीलोत्फलम् इति रूपम्।
विशिष्टविचारः - सूत्रे बहुलम् इति पदं श्रूयते। क्वचिद्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव इति च  बहुलशब्दस्य विषये श्रूयते। अतश्च क्वचित् प्रवृत्तिरित्यनेन नित्यसमासः ज्ञेयः। उदाहरणं तु कृष्णसर्पः। क्वचिदप्रवृत्तिरित्यनेन च निषेधः। तस्योदाहरणं च रामो जामदग्न्यः। क्वचिद्विभाषा इत्यस्य च विकल्पेन इत्यर्थः। यथा नीलोत्फलम् इति समासे। समासाभावे तु नीलमुत्फलम् इति।

दलप्रयोजनम् - विशेष्यम् इति पदं किमर्थम्? तक्षकः सर्पः इत्यत्र समासनिवृत्त्यर्थम्। यतः सर्पस्य तक्षकत्वं कदापि विशेष्यं न भवति। विशेष्यपदाभावे तु समासः स्यात्। विशेषणम् इति पदं किमर्थम्? लोहितः तक्षकः इत्यत्र समासनिवृत्त्यर्थम्। अत्र च लोहितः विशेषणं, परं तक्षकस्तु न विशेष्यम्। यदि सूत्रे विशेषणम् इति पदं न उच्यते, तर्हि प्रकृते समासः स्यात्। 

सह सुपा

Sanskrit

2. सह सुपा
पदच्छेदः - सह, सुपा इति।
अनुवृत्तिः - समर्थः पदविधिः इत्यतः समर्थपदमनुवर्तते। प्राक्कडारात्समासः इत्यतः समासपदमनुवर्तते।
सूत्रविचारः - वस्तुतः सह सुपा इत्येव यदि सूत्रं स्यात् तर्हि सुबामन्त्रिते पराङ्गवत्स्वरे इत्यतः अनुवर्त्यमानेन सुप् पदेन सह अस्य अन्वये कृते सुबन्तेन सह सुबन्तं समस्यते। तथा सति राजपुरुष इत्यादौ एव समासः स्यात्। पर्यभूषत्, अनुव्यचलत् इत्यादौ समासः न स्यात्। अतः योगो विभज्यते। सह इति योगः। योगविभागस्तु इष्टसिद्ध्यर्थम्। तथा च सह इत्येकं सूत्रम्। तस्मिन् सूत्रे सुबामन्त्रिते पराङ्गवत्स्वरे इत्यतः सुप् इति पदमनुवर्तते। किञ्च समर्थः पदविधिः इत्यतः समर्थपदमनुवर्तते। तच्च तृतीयान्तेन विपरिणमते। तथा च सूत्रार्थः - सुबन्तं समर्थेन सह समस्यते इति। तथा च समर्थशब्दः संबन्धपरकः इति ज्ञातपूर्वमेव। अतश्च पर्यभूषत् इत्यादौ दोषः न स्यात्।
            द्वितीयं च सूत्रं सुपा इति। तत्र च पूर्ववत् सुबामन्त्रिते इति सूत्रात् सुप् इति पदमनुवर्तते। प्राक्कडारात् समासः इत्यतः समास इति अधिक्रियते। अतश्च सूत्रार्थः सुबन्तेन सह सुबन्तं समस्यते इति। तथा तेन सूत्रेण राजपुरुष इत्यादौ समासः जायते। 

अनचि च।

2. अनचि च। सूत्रम् - अनचि च पदच्छेदः - अनचि , च इति द्विपदात्मकं सूत्रमिदम्। विग्रहः - न अच् अनच् , तस्मिन् अनचि इति विग्रहः। अन...