Sanskrit
6. ऋक्पूरब्धूःपथामानक्षे
पदच्छेदः - ऋक्पूरब्धूःपथाम्, अ,
अनक्षे इति त्रिपदात्मकं सूत्रम्।
विग्रहः - ऋक् च पूर् च अप् च धूर् च पथिन् चेति ऋक्पूरब्धूःपथः।
तेषाम् ऋक्पूरब्धूःपथाम् इति विग्रहः। न अक्षे अनक्षे इति।
अनुवृत्तिः - समासान्ताः
इत्यधिक्रियते।
सूत्रवृत्तिः - ऋगाद्यन्तस्य समासस्य
अप्रत्ययोऽन्तावयवः स्यात,
अक्षे या धूस्तदन्तस्य तु न।
सूत्रार्थः - अेनेन सूत्रेण अकारः
अन्तावयवत्वेन विधीयते। तथा च ऋक्, पुर्, अप्, धुर्, पथिन्
इत्येषाम् अन्तस्य समासस्य अकारात्मकप्रत्ययः अन्तावयवत्वेन भवति इति सूत्रार्थः। सूत्रे
अनक्षे इति श्रूयते। तच्च अनक्षे इत्यत्रैव संबध्यते, अन्येषामसंभवात्। तथा च विहितः अकारा-अन्तावयवः
अक्षसंबन्धिनी या धूः तस्य न भवति इति सूत्रस्थानक्षे इति पदेन बोध्यते।
उदाहरणम् - ऋचाम् अर्धः अर्धर्चः इति ऋचः उदाहरणम्। विष्णोः पूर्
विष्णुपुरम् इति पुरः उदाहरणम्।
No comments:
Post a Comment