Thursday, 4 December 2014

समर्थः पदविधिः

Sanskrit


1. समर्थः पदविधिः
पदच्छेदः - समर्थः पदविधिः।
विग्रहः - पदस्य विधिः पदविधिः उत पदयोः विधिः पदविधिः उत पदानां विधिः पदविधिः। अनेक विभक्त्यन्तसमासलाभाय अयं विग्रहः।
सूत्रवृत्तिः - पदसंबन्धी यो विधिः स समर्थाश्रितो बोध्यः।
सूत्रार्थः - सूत्रे समर्थशब्दः चतुर्विधमर्थं बोधयति। तद्यथा - सङ्गतार्थः समर्थः। संसृष्टार्थः समर्थः। सम्बद्धार्थः समर्थः। सम्प्रेक्षितार्थः समर्थः इति। परिभाषा सूत्रमिदम्। येन सह यस्य संबन्धः भवति, तेन सह सः समर्थः भवति। अर्थात् समर्थात् समर्थस्य वा पदस्य विधिः भवति। कोऽयं पदविधिः इति संशये उच्यते समासादि इति। तथा च समर्थानां पदविधिः वेदितव्यः इति सूत्रार्थः पर्यवस्यति।
उदाहरणम् - यथा - समासविधौ - राजपुरुषः इति। अत्र पदविधिः समासः भवति यतो हि अत्र राज्ञः पुरुषः इति उभे पदे परस्परं सम्बद्धार्थे इत्युक्ते समर्थे स्तः। अतः अनयोः समासः जायते।
विशिष्टविचारः - परं भार्या राज्ञः पुरुषः देवदत्तस्य इत्यत्र राज्ञः पुरुषः इत्यनयोः पदयोः सम्बद्धार्थता - परस्परम् आकाङ्क्षा नास्ति इत्यतः समासः न भवति। अत एवोक्तं सार्थ्यं द्विविधम् - व्यपेक्षालक्षणमेकार्थीभावलक्षणञ्चेति। तत्र स्वार्थपर्यवसायिनां पदानामाकाङ्क्षादिवशाद् यः परस्परः संबन्धः सा व्यपेक्षा। यथा वाक्ये - राज्ञः पुरुषः इत्यादौ। प्रक्रियादशायां पृथगर्थत्वेन प्रथमगृहीतस्य विशिष्टैकार्थत्वरूपः एकार्थीभावः। यथा वृत्तौ - राजपुरुषः इति।

दलप्रयोजनम् -             पदग्रहणं किमर्थम्? पदग्रहणाभावे वर्णविधौ अपि समर्थपरिभाषा स्यात्। परं वर्णविधौ समर्थपरिभाषा मा भूत् इत्येतदर्थं पदग्रहणमपेक्षितम्। अन्यथा - तिष्ठतु दध्यानय तक्रम् इत्यादौ इको यणचि इत्यनेन यणादेशः स्यात्। विधिग्रहणं किमर्थम्? पदस्य विधिः, पदयोर्विधिः, पदानां विधिरित्यनेकविभक्त्यन्त-समासलाभाय। समर्थपदं किमर्थम्? तत् पदाभावे तु पश्यति कृष्णं श्रितो देवदत्तमित्यादौ सामर्थ्याभावेऽपि कृष्णश्रित इत्यादि समासो भवेत्। तन्निवृत्त्यर्थम्। पदसत्त्वे तु तत्र सामर्थ्याभावात् समासो न भवेत्।। 

No comments:

Post a Comment

अनचि च।

2. अनचि च। सूत्रम् - अनचि च पदच्छेदः - अनचि , च इति द्विपदात्मकं सूत्रमिदम्। विग्रहः - न अच् अनच् , तस्मिन् अनचि इति विग्रहः। अन...