8. नदीभिश्च।
पदच्छेदः - नदीभिः, च इिति।
अनुवृत्तिः - अव्ययीभावः इत्यतः
अव्ययीभाव इत्यनुवर्तते।
सूत्रवृत्तिः - नदीभिः सह संख्या
प्राग्वत्।
सूत्रार्थः - सूत्रे विद्यमानचकारेण
पूर्वसूत्रात् संख्या इति पदमनुकृष्यते। तथा च नदीवचनैः शब्दैः सह संख्या समस्यते, स च समासः अव्ययीभावसमासः इत्यर्थः। अत्र च पुनः नियमः
परिकल्प्यते यत् पूर्वोक्तः समासः कुत्र भवति इत्यत्र उच्यते सामहारे चायमिष्यते
इति। अस्मिन् वाक्ये विद्यमानः चकारः एावार्थे प्रयुक्तः। तथा च अधुना सूत्रार्थः
नदीभिः सह संख्या समाहारे एव समस्यते, स च अव्ययीभावसमास इति। अत्र नदीशब्देन नदीशब्दविशेषस्य, नदीवाचकानां च ग्रहणं कर्तव्यमिति भाष्यकाराणामभिप्रायः। अत
एव पञ्चनदं,
सप्तगोदावरमित्यादिरपि सिद्ध्यति।
उदाहरणम् - सप्तगङ्गम् इति। सप्तानां गङ्गानां समाहारः इति
विग्रहवाक्ये सप्त आम् गङ्गा आम् इति च अलौकिकविग्रहवाक्ये अनेन सूत्रेण समासे
कृते समासत्वात् प्रातिपदिकसंज्ञायां, प्रातिपदिकत्वात् सुपो धातुप्रातिपदिकयोः इत्यनेन सुब्लुकि सप्तगङ्गा
इत्यवस्थायां संख्यायाः प्रथमानिर्दिष्टत्वात् उपसर्जनसंज्ञायां तस्य च
पूर्वनिपाते सप्तगङ्गा इत्यस्मात् सु प्रत्यये कृते सप्तगङ्गा सु इत्यवस्थायाम्
अव्ययीभावादतोऽम्त्वपञ्चम्याः इत्यनेन सुप्रत्ययस्य च अम्भावे
गोस्त्रियोरुपसर्जनस्य इत्यनेन सूत्रेण प्रातिपदिकस्य ह्रस्वे सप्तगङ्ग अम्
इत्यत्र च अमि पूर्वः इत्येनन पूर्वरूपे कृते सप्तगङ्गम् इति रूपं सिद्ध्यति।
No comments:
Post a Comment