9. चतुर्थीतदर्थार्थबलिहितसुखरक्षितैः।
पदच्छेदः - चतुर्थी, तदर्थार्थबलिहितसुखरक्षितैः इति।
विग्रहः - तस्य अर्थः तदर्थः। तदर्थश्च, अर्थश्च, बलिश्च, हितञ्च, सुखञ्च, रक्षितञ्चेति तदर्थार्थबलिहितसुखरक्षितानि तैः
तदर्थार्थबलिहितसुखरक्षितैः इति।
अनुवृत्तिः - तत्पुरुषः इति
अधिक्रियते। विभाषा इति अनुवर्तते। सह सुपा इति च अनुवर्तते। समासः इति
अधिक्रियते।
सूत्रवृत्तिः - चतुर्थ्यन्तार्थाय
यत् तद्वाचिना, अर्थादिभिश्च चतुर्थ्यन्तं वा प्राग्वत् इति।
सूत्रार्थः - चतुर्थी इति पदं
सुबामन्त्रिते पराङ्गवत्स्वरे इत्यस्मात् सूत्रात् अनुवर्त्यमानस्य सुप् इति पदस्य
विशेषणम्। प्रत्ययग्रहणे तदन्ताः ग्राह्याः इति तदन्तग्रहणम्। तदिति पदेन
चतुर्थ्यन्तस्य अर्थः परामृश्यते। तस्मै इदं तदर्थम्। तथा च चतुर्थ्यन्तं सुबन्तं
चतुर्थ्यर्थेन सुबन्तेन,
बलिशब्देन, हितशब्देन, सुखशब्देन, रक्षितशब्देन
च समस्यते,
स च तत्पुरुषसमासः भवति इत्यर्थः जायते। प्रकृते
चतुर्थ्यर्थः इत्यनेन प्रकृतिविकृतिभावः उच्यते। अतश्च तस्मिन् एव समासोऽयमिष्यते।
किञ्च सूत्रे विद्यमानेन अर्थशब्देन नित्यसमासवचनं, सर्वलिङ्गता च वक्तव्या।
उदाहरणम् - यूपाय दारु इति विग्रहे चतुर्थ्यन्तवाच्याय यत् दारु तद्
वाचिना सह चतुर्थ्यन्तं यूपाय इति चतुर्थ्यन्तं समस्यते। तथा च यूप ङे दारु सु
इत्यवस्थायां प्रकृतसूत्रेण समासे कृते समासत्वात् प्रातिपदिकसंज्ञायां, सुब्लुकि यूपदारु इति स्थिते सूत्रे चतुर्थी इति
प्रथमानिर्दिष्टत्वात् तस्यैव चतुर्थ्यन्तस्यैव उपसर्जनसंज्ञायां, तस्य च पूर्वनिपाते यूपदारु इत्यस्मात् प्रातिपदिकात् सु
प्रत्यये कृते यूपदारु सु इति स्थिते परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः इत्यनेन
नपुंसकलिङ्गत्वे स्वमोर्नपुंसकात् इत्यनेन च सु प्रत्ययस्य लुकि यूपादारु इति
रूपम्। एवमेव कुबेराय बलिः कुबेरबलिः, गवे हितम्,
गोहितम्, गवे सुखम्
गोसुखम्,
गवे रक्षितम् गोरक्षितम् इत्यादीनि अन्यानि उदाहरणानि।।
No comments:
Post a Comment