10. पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे।
पदच्छेदः - पूर्वपराधरोत्तरम्, एकदेशिना,
अनैकाधिकरणे इति त्रिपदात्मकं सूत्रमिदम्।
विग्रहः - पूर्वञ्च परञ्च अधरञ्च उत्तरञ्चेति पूर्वपराधरोत्तरम्। न
एकाधिकरणे अनैकाधिकरणे इिति विग्रहः। एकदेशशब्दः अवयवे रूढः। एकदेशः अस्य अस्तीति
एकदेशी अवयवी,
तेन एकदेशेन।
अनुवृत्तिः - प्राक्कडारात् समासः
इत्यधिक्रियते। तत्पुरुषः इत्यधिक्रियते।
सूत्रवृत्तिः - अवयविना सह पूर्वादयः
समस्यन्ते,
एकत्वसंख्याविशिष्टश्चेदवयवी।
सूत्रार्थः - सूत्रे एकदेशशब्दः
अवयवार्थं विदधाति। तथा च सूत्रार्थः - एकत्वविशिष्टद्रव्ये वर्तमानेन
अवयविवाचकसुबन्तेन पूर्वापरधरोत्तरशब्दाः सुबन्ताः समस्यन्ते, स तत्पुरुषः इति। इदं च सूत्रं षष्ठी इत्यनेन सूत्रेण
विहितस्य अपवादः। अन्यथा षष्ठ्यन्तस्यैव पूर्वनिपातः स्यात्।
उदाहरणम् - पूर्वं कायस्य इति विग्रहे पूर्व अम् काय ङस्
इत्यलौकिकविग्रहवाक्ये प्रकृतसूत्रेण समासे, समासत्वात् प्रातिपदिकसंज्ञायां सुपोधातुप्रातिपदिकयोः इत्यनेन सूत्रेण
सुब्लुकि पूर्वकाय इत्यस्मात् सु प्रत्यये रुत्वविसर्गौ च कृते पूर्वकायः इति
रूपम्।।
No comments:
Post a Comment