1.इको यणचि।
सूत्रम् - इको यणचि।
पदच्छेदः - इकः, यण्, अचि
अनुवृत्तिः - प्लुतप्रगृह्या अचि
नित्यम् इत्यतः अचि इत्यनुवर्तते। संहितायाम् इत्यधिक्रियते।
सूत्रवृत्तिः - इकः स्थाने यण् स्यादचि
संहितायां विषये।
सूत्रार्थः - इक् इति इ, उ,
ऋ,
लृ इति चत्वारः वर्णाः। यण् इति य, व,
र,
ल इति चत्वारः वर्णाः। इकः इति षष्ठी। तथा च षष्ठी स्थाने
योगा इति परिभाषया स्थाने इति लभ्यते। अचि इति सप्तमीनिर्दिष्टं पदं वर्तते। तेन च
तस्मिन्निति निर्दिष्टे पूर्वस्य इति परिभाषया पूर्वस्य इति लभ्यते। तथा च सूत्रार्थः एवं भवति - इक् वर्णानां यदि
असवर्णाः अच्वर्णाः परे भवन्ति तर्हि तेषां इकां स्थाने यण् वर्णाः भविष्यन्ति
इति। तत्र कस्य वर्णस्य क आोदेशः इति प्रश्ने उच्यते - स्थानतान्तर्याद्
तालुस्थानकस्य इकारस्य तालुस्थानकः यकारः इचुयशानां तालु इति निर्देशात्, उकारस्य च वकारः उपूपध्मानीयानाम् ओष्ठौ, वकारस्य दन्तोष्ठम् इति उभयत्रापि ओष्ठस्थाने साम्यत्वं
दृश्यते। तथैव मूर्धन्यस्थानकस्य ऋकारस्य मूर्धन्यस्थानकः रेफः, ऋटुरषाणां मूर्धा इति निर्देशात्। तथैव च दन्तस्थानकस्य
लृकारस्य दन्तस्थानकः लकारः, लृतुलसानां
दन्ताः इति निर्देशात्।
उदाहरणम् - 1. सुध्युपास्यः -
सुधी उपास्यः इत्यवस्थायां धकारोत्तरीकारस्य उपास्यः इति
उकाररूप-अच्परकत्वात् प्रकृतसूत्रेण यणादेशे कृते अर्थात् इकारस्य पूर्वोक्तरीत्या
स्थानसाम्यात् यकारे कृते सुध्युपास्यः इति रूपसिद्धिः भवति।
2. मध्वरिः - मधु अरिः इत्यवस्थायां
धकारोत्तर-उकारः इक् वर्णः,
तस्य च अिरिः इत्यत्र अकाररूपाच्परकत्वात् प्रकृतसूत्रेण
यणादेशः भवति। तथा च उकारस्य वकारादेशे कृते मध्वरिः इति रूपसिद्धिः।
3. धात्रंशः - धातृ अंशः इत्यवस्थायां तकारोत्तर-ऋकारस्य अंशः इत्यत्र
अकारूपाच्परकत्वात् प्रकृतसूत्रेण यणादेशे, ऋकारस्य च रेफादेशे कृते धात्रंशः इति रूपसिद्धिः भवति।
4. लाकृतिः - लृ आकृतिः इत्यवस्थायां लृकारस्य आकृतिः
इत्यत्राकाररूपाच्परकत्वात् प्रकृतसूत्रेण यणादेशे लृकारस्य लकारादेशे कृते
लाकृतिः इति रूपसिद्धिः भवति।
No comments:
Post a Comment