Sanskrit
5. चार्थे द्वन्द्वः।
पदच्छेदः - चार्थे द्वन्द्वः इति द्विपदात्मकं सूत्रम्।
अनुवृत्तिः - सुबामन्त्रिते पराङ्गवत्स्वरे
इत्यतः सुबिति अनुवर्तते। अनेकमन्यपदार्थे इत्यतः अनेकमित्यनुवर्तते। समासः
इत्यधिक्रियते।
सूत्रवृत्तिः - अनेकं सुबन्तं चार्थे
विद्यमानं वा समस्यते सः द्वन्द्वः इति।
सूत्रार्थः - द्वन्द्वसमासविधायकं सूत्रमिदम्। सूत्रेऽस्मिन्
चार्थः इति वर्तते। तथा च कोऽयं चार्थः इत्याक्षेपे उच्यते - चार्थाः चतुर्धा
भवन्ति। समुच्चय-अन्वाचय-इतरेतर-समाहाररूपेण। तत्र समुच्चयस्य अर्थस्तु
परस्परनिरपेक्षस्यानेकस्य एकस्यां क्रियायामन्वयः समुच्चयः। अन्यतरस्य
आनुषङ्गिकत्वेऽन्वयः अन्वाचयः इति अन्वाचयस्य लक्षणम्। मिलितानाम् अन्वयः
इतरेतरयोगः। समूहः समाहारः इति चतुर्थः चार्थः। एतेषु चतुर्षु चार्थेषु
इतरेतरयोगचार्थे,
समाहारचार्थे एव समासः भवति। समुच्चये अन्वाचये च
सामर्थ्याभावात् समासः न भवति।
उदाहरणम् - धवखदिरौ इति इतरेतरयोगस्य उदाहरणम्। धवश्च खदिरश्चेति
विग्रहवाक्ये धव सु खदिर सु इत्यवस्थायां सुपो धातुप्रातिपदिकयोः इत्यनेन सूत्रेण
सुब्लुकि धवखिदर इति स्थिते कृत्तद्धितसमासाश्च इत्यनेन सूत्रेण
प्रातिपदिकसंज्ञायां स्वौजसमौट् इत्यादिसूत्रेण सु प्रत्यये धवखदिर औ इत्यवस्थायां
वृद्धिरेचि इत्यनेन सूत्रेण वृद्धौ च धवखदिरौ इति रूपम्।
विशिष्टविचारः - चार्थाः चतुर्धा भवन्ति। ते च समुच्चय-अन्वाचय-इतरेतरयोग-समाहाराः। तत्र
समुच्चयो नाम परस्परनिरपेक्षस्यानेकस्यैकस्मिन् अन्वयः। निष्कृष्टार्थस्तु
एकस्मिन् क्रियापदे आवृत्ते एकस्य असमस्यमानपदस्य प्रथममन्वयः, तदनन्तरमन्यस्य अन्वयः यत्र तत्र समुच्चयः चार्थः ज्ञेयः।
यथा - ईश्वरं गुरुं च भजस्व इति। अत्र च शब्दयोगाद् गुरोः ईश्वरसापेक्षत्वम्। तथा
च सापेक्षसमर्थवत्भवति इत्युक्तत्वात् समासः न भवति।
द्वितीयस्तु अन्वाचयः। अन्यतरस्यानुषङ्गिकत्वेन अन्वयः
अन्वाचयः। निष्कृष्टार्थस्तु - यत्र अन्यतरस्य पदस्य एकस्मिन् क्रियापदे
आनुषङ्गिकत्वेन परार्थप्रवृत्तिविषयत्वेन अन्वयः., इतरस्य च पदस्य अन्यस्मिन् क्रियापदे उद्देश्यत्वेन अन्वयः तत्र अन्वाचयः
चार्थः ज्ञेयः। यथा - भिक्षाम् अट, गां च आनय इति। अत्र भिक्षाम् अटनेन प्राप्नुहि, तदा गौः संगता चेत् तामपि आनय इत्यर्थः। अत्र तु गवानयने ऐदंपर्येण प्रयत्नः न
विधेयः इति ज्ञायते। तथा च प्रकृतेऽपि सामर्थ्याभावात् न समासः।
तृतीयः इतरेतरयोगः। मिलितानामन्वय इतरेतरयोगः।
निष्कृष्टार्थस्तु - यत्र परस्परापेक्षितानां समुदितानाम् एकस्मिन् क्रियापदे
अन्वयः,
तत्र इतरेतरयोगः चार्थः ज्ञेयः। यथा - धवश्च खदिरश्च
धवखदिरौ इति। अत्र च परस्परसाहित्यसूचनाय धवश्च खदिरश्च इति चकारद्वयस्य प्रयोगः।
प्रकृते च सामर्थ्यं वर्तते इत्यतः समासः इष्यते एव।
अन्ते च समाहारः। समूहः समाहारः इत्युच्यते।
निष्कृष्टार्थस्तु - परस्परसाहित्यं यत्र वर्तते तत्र समाहारः चार्थः ज्ञेयः। यथा
- संज्ञा च परिभाषा च संज्ञापरिभाषम् इति। प्रकृते समाहारे द्वन्द्वः, द्विगुश्च नपुंसकं स्यात् इत्यर्थेकेन स नपुंसकम् इत्यनेन
सूत्रेण नपुंसकत्वं भवति।
अत्रावधेयांशः - इतरेतरयोगद्वन्द्वे साहित्यं (सहितस्य
भावः) द्रव्यविशेषणम्। समाहारद्वन्द्वे तु समूहो विशेष्यम् भवति।